Wednesday, January 27, 2016

Dialogue between Lord Shri Rama and Sage Narada

Dialogue between Lord Shri Rama and Sage Narada

श्री गणेशाय नमः ।


श्रीमहादेव उवाच
एकदा सुखमासीनं रामं स्वान्तः पुराजिरे । 
सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् । 1 ।

नीलोत्पलदलश्यामं कौस्तुभमुक्त कन्धरम् । 
सीतया रत्नदण्डेन चामरेणाथ वीजितम् । 2 ।

विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् । 
नारदो अवतरद्द्रष्टुमम्बराद्यत्र राघवः । 3 ।

शुध्दस्फटिकसंकाशः शरच्चन्द्र इवामलः । 
अतर्कितमुपायातो नारदो दिव्यदर्शनः । 4 ।

तं दृष्ट्वा सहसोत्थाय राम; प्रीत्या कृतांजलिः । 
ननाम शिरसा भूमौ सीतया सह भक्तिमान् । 5 ।

उवाच नारदं रामः प्रीत्या परमया युतः । 
संसारिणां मुनि श्रेष्ठ दुर्लभं तव दर्शनाम् । 
अस्माकं विषयासक्तचेतसां नितरां मुने  । 6 ।

अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः । 
संसारिणापि हि मुने लभ्यते सत्समागमः । 7 ।

अतस्त्वद्दर्शनादेव कृतार्थो अस्मि मुनीश्वर ।
  किं कार्य ते मया कार्यं ब्रुहितत्करवाणि भोः । 8 ।

अथ तं नारदो अप्याह राघवं भक्तवत्सलम् ।
 किं मोहयसि मां राम वाक्यै र्लोकानुसारिभिः । 9 ।

संसार्यहमिति  प्रोक्तं सत्यमे तत्वया विभो । 
जगतामादिभूता या सा माया गृहिणी तव । 10 ।

त्वतसन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः ।
 त्वदाज्ञया सदा भाति माया या त्रिगुणात्मिका । 11 ।

सूते अजस्त्रंस शुक्लकृष्णलोहिताः प्रजाः।
 लोकत्रयमहागेहे गृहस्थस्त्व मुदाह्रतः । 12 ।

त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा ।
 ब्रह्मा त्वं जानकी वाणी सूर्यस्तवं जानकी प्रभा । 13 ।

भवान् शशांकः सीता तु रोहिणी शुभ लक्षणा ।
 शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् । 14 ।

यमस्त्वं कालरूपश्च  सीता संयमिनी प्रभो ।
 निऋतिस्त्वं  जगन्नाथ तामसी जानकी शुभा । 15 ।

राम त्वमेव वरूणो भार्गवी जानकी शुभा । 
वायुस्त्वं राम सीता तु सदागतिरितीरिता । 16 ।

कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता ।
 रूद्राणी जानकी प्रोक्तारूद्रस्त्वं लोकनाशकृत् । 17 ।

लोके स्त्रीवाचकं यावत्तसर्वं जानकी शुभा । 
पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव । 18 ।

तस्माल्लोकत्रये देवा युवाभ्यां नास्ति किंचन । 19 ।

त्वदाभासोदिताज्ञानमव्याकृतमीतिर्यते ।
 तस्मान्महांस्ततः सूत्रं लिगं सर्वात्मकं ततः । 20 ।

अहंकारश्च बुध्दिश्च पंचप्राणेन्द्रियाणि च ।
 लिंगमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् । 21 ।

स एव जीवसंज्ञश्च लोके भाति जगन्मयः ।
 अवाच्यानाद्यविद्यैव  कारणोपाधिरूच्यते । 22 ।

स्थूलं सूक्ष्मंकारणाख्यमुपाधित्रितयं चितेः ।
एतै विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः । 23 ।


जाग्रत्स्वप्नसुषुप्त्याख्या संसृतिर्या प्रवर्तते । 
तस्याविलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम । 24 ।

त्वत्त एव जगज्जातं त्वयि सर्वंप्रतिष्ठितम् । 
त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् । 25 ।

रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत । 
परात्माहमिति ज्ञात्वा भयदुःखै विमुच्यते । 26 ।

चिन्मात्राज्योतिषा सर्वाः सर्वदेहेषु बुध्दयः ।
 त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् । 27 ।

अज्ञानान्न्यस्यते सर्वं त्वयि रज्जौ भुजंगवत् ।
  त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं तदाभ्यसेत् । 28 ।

त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् ।
 तस्मात्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि । 29 ।

अहं त्वद्भक्तभक्तानां तद्भक्तानां  च किंकरः ।
 अतो मामनुगृण्हीष्व मोहयस्व न मां प्रभो । 30 ।

त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो ।
 अतस्तवाहं पौत्रो अस्मि भक्तं मां पाहि राघव । 31 ।

इत्युक्त्वा  बहुशो नत्वा स्वानन्दाश्रुपरिप्लुतः ।
 उवाच वचनं राम ब्रह्मणा नोदितोअस्म्यहम् । 32 ।

रावणस्य वधार्थाय जातो असि रघु सत्तम । 
इदानीं राज्यरक्षार्थं पिता त्वामभिषेक्ष्यति । 33 ।

यदि राज्याभिसंसक्तो  रावनं न हनिष्यसि ।
 प्रतिज्ञा ते कृता राम भूभारहरणाय वै । 34 ।

तत सत्यं कुरू राजेन्द्र सत्यसंधस्त्वमेव हि । 
श्रुत्वैतद् गदितं रामो नारदं प्राह सस्मीतम् । 35 ।

श्रृणु नारद मे किंचिद्विद्यते अविदितं क्वचित् । 
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः । 36 ।

किन्तु कालानुरोधेन तत तत प्रारब्धसंक्षयात् ।
हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् । 37 ।

रावणस्य विनाशार्थं श्वो गन्ता दण्डाकननम् । 
चतुर्दश समास्तत्र ह्उषित्वा मुनिवेषधृक् । 38 ।

सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् । 
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह । 39 ।

प्रदक्षिणत्रयं कृत्वा दण्डवत्प्रणिपत्य तम् । 
अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः । 40 ।

संवादं पठति श्रृणोति संस्मरेद्वा  यो नित्यं मुनिवररामयोः स भक्त्या  ।
संप्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं विरतिपुरःसरं क्रमेण । 41 ।

इति श्री अध्यात्म रामायणे उमामहेश्वरसंवादे अयोध्या काण्डे श्रीराम नारद संवादे प्रथमः सर्गः ।

No comments:

Post a Comment