Saturday, March 26, 2016

श्रीराम सहस्र नाम स्तोत्र Sri Ram Thousand Names Hymn

 Sri Ram's Thousand Names Hymn
श्रीराम सहस्र नाम स्तोत्र



स्तोत्रम्
राजीवलोचनः श्रीमान् श्रीरामो रघुपुंगवः ।
रामभद्रः सदाचारोराजेन्द्रो जानकीपतिः । 1 । 8

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । 
जनार्दनो जितामित्रः परार्थेकप्रयोजनः । 2 । 15

विश्वामित्रप्रियो दान्तः  शत्रुजित शत्रुतापनः |
सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः । 3 । 23

ज्ञानभाव्यो अपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः । 
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी  प्रतापवान । 4 ।  32   
          
द्युतिमत आत्मवान वीरो जितक्रोधो अरिमर्दनः । 
विश्वरूपो विशालाक्षः प्रभुः  परिवृढो दृढः । 5 । 42

ईशः खड्गधरः श्रीमान् कौसलेयो अनसूयकः ।
विपुलांसो महोरस्कः परमेष्ठी परायणः । 6 । 51

सत्यव्रतः सत्यसंधो गुरू परमधार्मिक ः । 
लोकज्ञो लोकवंद्यश्च लोकात्मा लोककृत परः । 7 । 60

अनादि भगवान सेव्यो जितमायो रघूद्वहः ।
रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः । 8 । 70

ब्रह्मण्यो नीतिमान गोप्ता सर्वदेवमयो हरिः । 
सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः । 9 । 79

सौम्यो महर्षिः कोदण्डी सर्वज्ञः  सर्वकोविदः । 
कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः । 10 । 87

भव्यो जितारिषड्वर्गो महोदरो अघनाशनः ।
सुकीर्ति आदिपुरूषः कान्तः पुण्यकृतागमः । 11 । 95

अकल्मष चतुर्बाहुः सर्वावासो दुरासदः ।
स्मितभाषी निवृत्तात्मा  स्मृतिमान् वीर्यवान् प्रभुः । 12 । 104

धीरो दान्तो घनश्यामः सर्वायुधविशारदः । 
अध्यात्मयोगनिलयः  सुमनः लक्ष्मणाग्रजः । 13 । 111

सर्वतीर्थमय शूरः  सर्वयज्ञफलप्रदः । 
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः । 14 । 117

वर्णाश्रमकरो वर्णी शत्रुजित पुरूषोत्तमः ।
बिभीषणप्रतिष्ठाता परमात्मा परात्परः । 15 । 124

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः ।
अनन्तदृष्टी आनन्दो धनुर्वेदो धनुर्धरः । 16 । 132

गुणाकरो गुणश्रेष्ठः सच्चिदानंदविग्रहः ।
अभिवंद्यो महाकायो विश्वकर्मा विशारदः । 17 । 139

विनीतात्मा वीतराग तपस्वीशो जनेश्वरः ।
कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः । 18 । 147

अक्षयः पुरूषः साक्षी केशवः पुरूषोत्तमः ।
लोकाध्यक्षो महामायो बिभीषणवरप्रदः । 19 । 155

आनन्दविग्रहो ज्योर्ति हनुमत्प्रभु अव्ययः । 
भ्राजिष्णुः सहनो भोक्तः  सत्यवादि बहुश्रुतः । 20 । 164

सुखदः कारणं कर्ता भवबंधविमोचनः ।
देवचूडामणीनेता ब्रह्मण्यो ब्रह्मवर्धनः । 21 । 172

संसारोत्तारको रामः सर्वदुःखविमोक्षकृत् । 
विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् । 22 । 179

नित्यो नियतकल्याणः सीताशोकविनाशकृत । 
काकुत्स्थः पुण्डरिकाक्षो विश्वामित्रभयापहः । 23 । 185

मारीचमथनो  रामो विराधपण्डितः ।
दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः । 24 । 192

महाधर्नुमहाकायो भीमो भीमपराक्रमः । 
तत्वस्वरूपी तत्वज्ञ तत्ववादि सुविक्रमः । 25 । 200

भूतात्मा भुतकृत्  स्वामी कालज्ञानी महापटुः ।अनिर्विण्णो गुणग्राही निष्कलंकः कलंकघ्नः । 26 । 209

स्वभावभद्र शत्रुघ्नः केशवः स्थाणु ईश्वरः ।
भूतादि शम्भु आदित्यः स्थविष्ठ शाश्वतो ध्रुवः । 27 । 220

कवची कुण्डली चक्रीखड्गी भक्तजनप्रियः । 
अमृत्यु जन्मरहितः  सर्वजित सर्वगोचरः । 28 । 229

अनुत्तमो अप्रमेयात्मा सर्वादिगुणसागरः । 
समः समात्मा समगो जटामुकुटमण्डितः । 29 । 237

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपः ।
लोकाध्यक्षो महाबाहु अमृतो वेदविदवित्तमः । 30 । 245

सहिष्णुः सद्गतिः शास्ता विश्वयोनि र्महाद्युतिः ।
अतीन्द्र उर्जितः प्रांशु उपेन्द्रो वामनो बली । 31 । 256

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शंकरः । 
हंसो मरीचि गोविन्दो रत्नगर्भो महामतिः । 32 । 266

व्यासो वाचस्पतिः सर्वदर्पिता असुरमर्दनः । 
जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः । 33 । 273

सम्भवो अतीन्द्रियो वेद्यो अनिर्देश्यो जाम्बवतप्रभुः । 
मदनो मथनो व्यापी विश्वरूपो निरंजनः । 34 । 283

नारायणो अग्रणी  साधु जटायुप्रीतिवर्धनः ।
नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः । 35 । 291

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः । 
वसुदः सुभुजो नैकमायो भव्यप्रमोदनः । 36 । 298

चण्डांशुः सिध्दिदः  कल्पः शरणागतवत्सलः ।
अगदो रोगहर्ता मन्त्रज्ञो मन्त्रभावनः । 37 । 306

सौमित्रिवत्सलो धुर्यो व्यक्ताअव्यक्तस्वरूपधृक् ।
वसिष्ठो ग्रामणीः श्रीमान अनुकुलः प्रियंवदः । 38 । 314

अतुलः सात्वको धीरः शरासनविशारदः । 
ज्येष्ठः सर्वगुणोपेतः शक्तिमान  ताटाकान्तः । 39 । 322

वैकुंठः प्राणिनां प्राणः कमठः कमलापतिः । 
गोवर्धनधरो मत्स्यरूपः कारूण्यसागरः । 40 । 329

कुंभकर्णप्रभेत्ता च गोपीगोपालसंवृतः । 
मायावी व्यापको व्यापी रैणुकेयबलापहः । 41 । 335

पिनाकमथनो वंद्यः समर्थो गरूडध्वजः । 
लोकत्रयाश्रयो लोकचरितो भरताग्रजः । 42 । 342

श्रीधरः सद्गति लोकसाक्षीनारायणो बुधः । 
मनोवेगी मनोरूपी पूर्णः पुरूषपुंगवः । 43 । 351


यदुश्रेष्ठो यदुपति भूतावासः सुविक्रमः । 
तेजोधरो धराधार चतुर्मूर्ति महानिधिः । 44 । 359

चाणूरमर्दनो दिव्य शांतो भरतवंदितः ।
शब्दातीगो गभीरात्मा कोमलांगः प्रजागरः । 45 । 367

लोकगर्भ शेषशायी क्षीराब्धिनिलयो अमलः । 
आत्मयोनि अदीनात्मा सहस्राक्ष सहस्रपाद । 46 । 375

अर्मतांशु महागर्भो निवृत्तविषयस्पृहः ।
त्रिकालज्ञो मुनिसाक्षी विहायसगतिः कृती । 47 । 383

पर्जन्यः कुमुदो भूतावासः कमललोचनः । 
श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः । 48 । 391

लोकाभिरामो लोकारिमर्दनः सेवकप्रियः । 
सनातनतमो मेघश्यामलो राक्षसान्तकृत । 49 । 397

दिव्यायुधधरः श्रीमान अप्रमेयो जितेन्द्रियः ।
भूदेववंद्यो जनकप्रियकृत प्रपितामहः । 50 । 404

उत्तमः सात्विकः  सत्यः सत्यसंध त्रिविक्रमः । 
सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः । 51 । 415

दामोदरो अच्युत शांगी वामनो मधुराधिपः ।
देवकीनंदनः शौरिः शुरः कैटभमर्दनः । 52 । 424

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः ।
कालस्वरूपी कालात्मा कालः कल्याणदः कविः । 53 । 431

संवत्सर ऋतु पक्षो अयनं दिवसो युगः ।
स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुल; ।
अनादिनिधनः सर्वलोकपूज्यो निरामय: । 54 ।  445

रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः । 
सर्वदुःखातिगो विद्याराशिः परमगोचरः । 55 । 453

शेषो विशेषो विगतकल्मषो रघुनायकः ।  
वर्णश्रेष्ठो वर्ण्यबाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः । 56 । 461

कर्मसाक्षी अमरश्रेष्ठ देवदेवः सुखप्रदः ।
देवाधिदेवो देवर्षि देवासुरनमस्कृतः । 57 । 468

सर्वदेवमयश्चक्री शारंगपाणी रघूत्तमः ।
मनो बुध्दि अहंकारः प्रकृति पुरूषो अव्ययः । 58 । 478

अहल्यापावनः स्वामी पितृभक्तो वरप्रदः ।
न्यायो न्यायी नयी श्रीमान् नयो नगधरो ध्रुवः । 59 । 489

लक्ष्मीविश्वंभरा भर्ता देवेन्द्रो बलिमर्दनः ।
बाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः । 60 । 496

देवाग्रणी शिवध्यानतत्परः परम: परः । 
सामगेयो प्रियो अक्रुरः पुण्यकीर्ति सुलोचनः। 61 । 505

पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः ।
जटिलः कल्मषध्वान्तप्रभंजनविभावसु ः । 62 । 513

अव्यक्तलक्षणो अव्यक्तो दशास्यद्वीपकेसरी ।
कलानिधिः कलानाथो कमलानंदवर्धनः । 63 । 519

जयी जितारिः सर्वादि शमनो भवभंजनः ।
अलंकरिष्णु अचलो रोचिष्णु विक्रमोत्तमः । 64 । 528

आशुः शब्दपतिः शब्दागोचरो रंजनो रघुः ।
निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः । 65 । 539

आत्मयोनि अयोनिश्च सप्तजिव्हः सहस्रपात् । 
सनातनतम स्रग्वी पेशलो जविनांवरः । 66 । 547

शक्तिमत शंखभृत नाथ गदापद्मरथांगभृत् ।
निरीहो निर्विकल्पश्च चिद्रुपो वीतसाध्वसः । 67 । 555

शताननः सहस्राक्ष शतमूर्ति घनप्रभः ।
ह्रतपुण्डरिकशयनः कठिनो द्रव एव च । 68 । 562

उग्रो ग्रहपतिः श्रीमान् समर्थो अनर्थनाशनः ।
अधर्मशत्रू रक्षोघ्नः पुरूहुतः पुरुष्टुतः । 69 । 571

ब्रह्मगर्भो बृहत्गर्भो धर्मधेनु धनागमः ।
हिरण्यगर्भो ज्योतिषमान सुललाटः सुविक्रमः । 70 । 579

शिवपूजारतः श्रीमान् भवानीप्रियकृत वशी ।
नरो नारायणः श्यामः कपर्दी नीललोहितः । 71 । 588

रूद्रः पशुपतिः स्थाणु विश्वामित्रो द्विजेश्वरः । 
मातामहो मातरिश्वा विरिंचो विष्टश्रवा । 72 । 597

सर्वभुतानांक्षोभ्यः चण्डः सत्यपराक्रमः ।
 वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः । 73 । 604

निदाघ तपनो अमोघः श्लक्ष्णः परबलापह्रत । 
कबंधमथनो दिव्यः कम्बुग्रीवशिवप्रियः । 74 । 612

शंखो अनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः ।
असंसृष्टो अतिथिः शूरः प्रमाथी पापनाशकृत् । 75 । 622

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।
रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः । 76 । 630

पवित्रपादः पापारि मणिपूरो नभोगतिः ।
उत्तारणो  दुष्कृति दुर्धर्षो दुस्सहो अभयः । 77 । 639

अमृतेशो अमृतवपु धर्मी धर्मः कृपाकर ः । 
भर्गो विवस्वान आदित्यो  योगाचार्यो दिवस्पतिः । 78 । 649

उदारकीर्ति उद्योगी वांड्मयः सदसन्मयः । 
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः । 79 । 657

चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः ।
निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः । 80 । 665

श्रीवल्लभः शिवारंभः शान्तिर्भद्रः समंजसः ।
भूशयो भूतिकृत भूति भूषणो भूतवाहनः । 81 । 675

अकायो भक्तकायस्थः कालज्ञानी महावटुः ।
परार्थवृत्ति अचलो  विविक्तः श्रुतिसागरः । 82 ।683

स्वभावभद्रो मध्यस्थः संसारभयनाशनः ।
वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः । 83 । 690

सुरेन्द्रः करणं कर्म कर्मकृत कर्म्यधोक्षजः ।
ध्येयो धुर्योधराधीशः संकल्पः शर्वरीपतिः । 84 । 701


परमार्थ गुरू वृध्दः शुचिराश्रितवत्सलः । 
विष्णु जिष्णु विभु वन्द्यो यज्ञेशो यज्ञपालकः । 85 । 711

प्रभविष्णु  ग्रसिष्णुश्च लोकात्मा लोकभावनः ।
केशवः केशिहा काव्यः कविः कारणकारणम् । 86 । 720 

कालकर्ता कालशेषो  वासुदेवः पुरूष्टुतः । 
आदिकर्ता वराहश्च माधवो मधुसूदनः । 87 । 728

नारायणो नरो हंसो विष्वक्सेनो जनार्दनः । 
विश्वकर्ता महायज्ञो ज्योतिष्मान पुरूषोत्तमः । 88 । 737

वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ।
नारसिंहो महाभिमो वक्रदंष्ट्रो नखायुधः । 89 । 746

आदिदेवे जगत्कर्ता योगीशो गरूडध्वजः ।
गोविन्दो गोपति गोप्ता भुपति भुवनेश्वरः । 90 । 755

पद्मनाभो ह्रषीकेशो धाता दामोदर प्रभुः ।
त्रिविक्रम त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः । 91 । 764

वामनो दुष्टदमनो गोविंदो गोपवल्लभः । 
भक्तिप्रियो अच्युतः सत्यः सत्यकीर्तिः स्मृति ः । 92 । 773

कारूण्यं करूणोव्यासः पापहा शान्तिवर्धनः ।
संन्यासि शास्त्र तत्वज्ञो मंदाद्रिनिकेतना । 93 ।782

बदरीनिलयः शांत तपस्वी वैद्युत्प्रभः । 
भुतावासो गुहावासः श्रीनिवासः श्रियः पतिः । 94 । 790

तपोवासो मुदावासः सत्यवासः सनातनः ।
पुरूषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः । 95 ।  799

पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः ।
शंखी चक्री गदी शांर्गी लांगली मुसली हली । 96 ।  810

किरीटी कुण्डली हारी मेखली कवची ध्वजी |
योध्दा जेता महावीर्यः शत्रुजित शत्रुतापनः । 97 । 821

शास्ता शास्त्रकरः शास्त्रं शंकरः शंकरस्तुतः ।
सारथि सात्विकः स्वामी सामवेदप्रियः समः । 98 । 830

पवनः संहतः शक्तिः संपूर्णांगः समृध्दीमान । 
स्वर्गदः कामदः श्रीदः कीर्तिदो अकीर्तिनाशनः । 99 । 841

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः । 
सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः । 100 । 848

सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः ।
सर्गस्थित्यन्तकृत देवः सर्वलोकसुखावहः । 101 । 854

अक्षय्यः शाश्वतो अनन्तः क्षयवृध्दीविवर्जितः ।
 निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरंजनः । 102 । 863

सर्वोपाधिनिनिर्मुक्तः सत्तामात्रव्यवस्थितः ।
अधिकारि विभुनित्यः परमात्मा सनातनः । 103 । 870

अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः ।
श्यामो युवा लोहिताक्षो दीप्तास्य मितभाषणः । 104 । 880

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।
सत्यवान गुणसंपन्नः स्वयंतेजाः सुदीप्तिमान् । 105 । 888

कालात्मा भगवान कालः कालचक्रप्रवर्तक ः ।
नारायणः परंज्योतिः परामत्मा सनातनः । 106 । 896

विश्वसृड विश्वगोप्ता विश्वभोक्ता शाश्वतः ।
विश्वेश्वरो विश्वमूर्ति विश्वात्मा विश्वभावनः । 107 । 904

सर्वभुत सुह्रद शांत सर्वभूतानुकंपनः ।
सर्वेश्वरेश्वरः  सर्वः श्रीमान  आश्रितवत्सलः । 108 । 911

सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः । 
अभ्यन्तरस्थ तमस्च्छेत्ता नारायणः परः । 109 । 918

अनादिनिधनः स्रष्टा प्रजापतिपति हरिः । 
नरसिंहः ह्रषीकेशः सर्वात्मा सर्वदृग वशी । 110 । 927

जगस्तस्थुष श्चैव प्रभु नेता सनातनः ।
कर्ता धाता विधाता  सर्वेषां प्रभु ईश्वरः । 111 । 936

सहस्रमूर्ति विश्वात्मा  विष्णु विश्व दृगव्ययः । 
पुराणपुरूषः स्रष्टा सहस्राक्ष सहस्रपाद । 112 । 945

तत्वं नारायणो विष्णु वासुदेवः सनातनः ।
परमात्मा परं ब्रह्म सच्चिदानंदविग्रहः । 113 । 953

परं ज्योति परं धामं पारकाशः परात्परः । 
अच्युतः पुरूषः कृष्णः शाश्वतः शिवः ईश्वरः । 114 । 963

नित्यः सर्वगतः स्थाणुरूग्रः साक्षी प्रजापतिः ।
हिरण्यगर्भः सविता लोककृत लोकभृत विभूः । 115 । 974

रामः श्रीमान महाविष्णु जिष्णु देवहितावहः ।
 तत्वात्मा  तारकं ब्रह्म  शाश्वतः सर्वसिध्दिदः। 116 । 984

अकारवाच्यो भगवान श्री भूलीलापतिः पुमान् ।
सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः । 117 । 993

स्वामी सुशीलः सुलभः सर्वज्ञ सर्वशक्तिमान् ।
नित्यः संपूर्णकामश्च नैसर्गिकसुह्रद सुखीः । 118 । 1002

कृपापीयूषजलधि शरण्यःसर्वदेहिनाम् । 
श्रीमान  नारायणः स्वामी जगतांपति  ईश्वरः । 119 । 1009

श्रीशः शरण्यो भूतानां  संश्रिताभीष्टदायकः । 
अनंतः श्रीपती रामो गुणभृत निर्गुण महान् । 120 । 1018


इति श्री आनंद रामायणे श्रीराम सहस्रनाम स्तोत्रं संपूर्णम् ।
ॐ श्री भगावन श्री रामचन्द्रार्पणमस्तु । 

ॐ श्री कृष्णार्पणमस्तु । ॐ तत् सत् ॐ श्री आई सुशीला ॐ तत् सत् चरणार्पणमस्तु ।

  ईश्वर और धर्मपर आधारित निम्नलिखीत लिंक्स भी कृपया  देख लीजिये -

http://maiism.blogspot.in/2016/01/names-1-to-500-of-ten-thousands-names.html

http://universalreligionmaiism.blogspot.in/







   














No comments:

Post a Comment