Saturday, March 26, 2016

श्रीराम सहस्र नाम स्तोत्र Sri Ram Thousand Names Hymn

 Sri Ram's Thousand Names Hymn
श्रीराम सहस्र नाम स्तोत्र



स्तोत्रम्
राजीवलोचनः श्रीमान् श्रीरामो रघुपुंगवः ।
रामभद्रः सदाचारोराजेन्द्रो जानकीपतिः । 1 । 8

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । 
जनार्दनो जितामित्रः परार्थेकप्रयोजनः । 2 । 15

विश्वामित्रप्रियो दान्तः  शत्रुजित शत्रुतापनः |
सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः । 3 । 23

ज्ञानभाव्यो अपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः । 
ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी  प्रतापवान । 4 ।  32   
          
द्युतिमत आत्मवान वीरो जितक्रोधो अरिमर्दनः । 
विश्वरूपो विशालाक्षः प्रभुः  परिवृढो दृढः । 5 । 42

ईशः खड्गधरः श्रीमान् कौसलेयो अनसूयकः ।
विपुलांसो महोरस्कः परमेष्ठी परायणः । 6 । 51

सत्यव्रतः सत्यसंधो गुरू परमधार्मिक ः । 
लोकज्ञो लोकवंद्यश्च लोकात्मा लोककृत परः । 7 । 60

अनादि भगवान सेव्यो जितमायो रघूद्वहः ।
रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः । 8 । 70

ब्रह्मण्यो नीतिमान गोप्ता सर्वदेवमयो हरिः । 
सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः । 9 । 79

सौम्यो महर्षिः कोदण्डी सर्वज्ञः  सर्वकोविदः । 
कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः । 10 । 87

भव्यो जितारिषड्वर्गो महोदरो अघनाशनः ।
सुकीर्ति आदिपुरूषः कान्तः पुण्यकृतागमः । 11 । 95

अकल्मष चतुर्बाहुः सर्वावासो दुरासदः ।
स्मितभाषी निवृत्तात्मा  स्मृतिमान् वीर्यवान् प्रभुः । 12 । 104

धीरो दान्तो घनश्यामः सर्वायुधविशारदः । 
अध्यात्मयोगनिलयः  सुमनः लक्ष्मणाग्रजः । 13 । 111

सर्वतीर्थमय शूरः  सर्वयज्ञफलप्रदः । 
यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः । 14 । 117

वर्णाश्रमकरो वर्णी शत्रुजित पुरूषोत्तमः ।
बिभीषणप्रतिष्ठाता परमात्मा परात्परः । 15 । 124

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरंजयः ।
अनन्तदृष्टी आनन्दो धनुर्वेदो धनुर्धरः । 16 । 132

गुणाकरो गुणश्रेष्ठः सच्चिदानंदविग्रहः ।
अभिवंद्यो महाकायो विश्वकर्मा विशारदः । 17 । 139

विनीतात्मा वीतराग तपस्वीशो जनेश्वरः ।
कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः । 18 । 147

अक्षयः पुरूषः साक्षी केशवः पुरूषोत्तमः ।
लोकाध्यक्षो महामायो बिभीषणवरप्रदः । 19 । 155

आनन्दविग्रहो ज्योर्ति हनुमत्प्रभु अव्ययः । 
भ्राजिष्णुः सहनो भोक्तः  सत्यवादि बहुश्रुतः । 20 । 164

सुखदः कारणं कर्ता भवबंधविमोचनः ।
देवचूडामणीनेता ब्रह्मण्यो ब्रह्मवर्धनः । 21 । 172

संसारोत्तारको रामः सर्वदुःखविमोक्षकृत् । 
विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् । 22 । 179

नित्यो नियतकल्याणः सीताशोकविनाशकृत । 
काकुत्स्थः पुण्डरिकाक्षो विश्वामित्रभयापहः । 23 । 185

मारीचमथनो  रामो विराधपण्डितः ।
दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः । 24 । 192

महाधर्नुमहाकायो भीमो भीमपराक्रमः । 
तत्वस्वरूपी तत्वज्ञ तत्ववादि सुविक्रमः । 25 । 200

भूतात्मा भुतकृत्  स्वामी कालज्ञानी महापटुः ।अनिर्विण्णो गुणग्राही निष्कलंकः कलंकघ्नः । 26 । 209

स्वभावभद्र शत्रुघ्नः केशवः स्थाणु ईश्वरः ।
भूतादि शम्भु आदित्यः स्थविष्ठ शाश्वतो ध्रुवः । 27 । 220

कवची कुण्डली चक्रीखड्गी भक्तजनप्रियः । 
अमृत्यु जन्मरहितः  सर्वजित सर्वगोचरः । 28 । 229

अनुत्तमो अप्रमेयात्मा सर्वादिगुणसागरः । 
समः समात्मा समगो जटामुकुटमण्डितः । 29 । 237

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपः ।
लोकाध्यक्षो महाबाहु अमृतो वेदविदवित्तमः । 30 । 245

सहिष्णुः सद्गतिः शास्ता विश्वयोनि र्महाद्युतिः ।
अतीन्द्र उर्जितः प्रांशु उपेन्द्रो वामनो बली । 31 । 256

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शंकरः । 
हंसो मरीचि गोविन्दो रत्नगर्भो महामतिः । 32 । 266

व्यासो वाचस्पतिः सर्वदर्पिता असुरमर्दनः । 
जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः । 33 । 273

सम्भवो अतीन्द्रियो वेद्यो अनिर्देश्यो जाम्बवतप्रभुः । 
मदनो मथनो व्यापी विश्वरूपो निरंजनः । 34 । 283

नारायणो अग्रणी  साधु जटायुप्रीतिवर्धनः ।
नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः । 35 । 291

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः । 
वसुदः सुभुजो नैकमायो भव्यप्रमोदनः । 36 । 298

चण्डांशुः सिध्दिदः  कल्पः शरणागतवत्सलः ।
अगदो रोगहर्ता मन्त्रज्ञो मन्त्रभावनः । 37 । 306

सौमित्रिवत्सलो धुर्यो व्यक्ताअव्यक्तस्वरूपधृक् ।
वसिष्ठो ग्रामणीः श्रीमान अनुकुलः प्रियंवदः । 38 । 314

अतुलः सात्वको धीरः शरासनविशारदः । 
ज्येष्ठः सर्वगुणोपेतः शक्तिमान  ताटाकान्तः । 39 । 322

वैकुंठः प्राणिनां प्राणः कमठः कमलापतिः । 
गोवर्धनधरो मत्स्यरूपः कारूण्यसागरः । 40 । 329

कुंभकर्णप्रभेत्ता च गोपीगोपालसंवृतः । 
मायावी व्यापको व्यापी रैणुकेयबलापहः । 41 । 335

पिनाकमथनो वंद्यः समर्थो गरूडध्वजः । 
लोकत्रयाश्रयो लोकचरितो भरताग्रजः । 42 । 342

श्रीधरः सद्गति लोकसाक्षीनारायणो बुधः । 
मनोवेगी मनोरूपी पूर्णः पुरूषपुंगवः । 43 । 351


यदुश्रेष्ठो यदुपति भूतावासः सुविक्रमः । 
तेजोधरो धराधार चतुर्मूर्ति महानिधिः । 44 । 359

चाणूरमर्दनो दिव्य शांतो भरतवंदितः ।
शब्दातीगो गभीरात्मा कोमलांगः प्रजागरः । 45 । 367

लोकगर्भ शेषशायी क्षीराब्धिनिलयो अमलः । 
आत्मयोनि अदीनात्मा सहस्राक्ष सहस्रपाद । 46 । 375

अर्मतांशु महागर्भो निवृत्तविषयस्पृहः ।
त्रिकालज्ञो मुनिसाक्षी विहायसगतिः कृती । 47 । 383

पर्जन्यः कुमुदो भूतावासः कमललोचनः । 
श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः । 48 । 391

लोकाभिरामो लोकारिमर्दनः सेवकप्रियः । 
सनातनतमो मेघश्यामलो राक्षसान्तकृत । 49 । 397

दिव्यायुधधरः श्रीमान अप्रमेयो जितेन्द्रियः ।
भूदेववंद्यो जनकप्रियकृत प्रपितामहः । 50 । 404

उत्तमः सात्विकः  सत्यः सत्यसंध त्रिविक्रमः । 
सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः । 51 । 415

दामोदरो अच्युत शांगी वामनो मधुराधिपः ।
देवकीनंदनः शौरिः शुरः कैटभमर्दनः । 52 । 424

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः ।
कालस्वरूपी कालात्मा कालः कल्याणदः कविः । 53 । 431

संवत्सर ऋतु पक्षो अयनं दिवसो युगः ।
स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुल; ।
अनादिनिधनः सर्वलोकपूज्यो निरामय: । 54 ।  445

रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः । 
सर्वदुःखातिगो विद्याराशिः परमगोचरः । 55 । 453

शेषो विशेषो विगतकल्मषो रघुनायकः ।  
वर्णश्रेष्ठो वर्ण्यबाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः । 56 । 461

कर्मसाक्षी अमरश्रेष्ठ देवदेवः सुखप्रदः ।
देवाधिदेवो देवर्षि देवासुरनमस्कृतः । 57 । 468

सर्वदेवमयश्चक्री शारंगपाणी रघूत्तमः ।
मनो बुध्दि अहंकारः प्रकृति पुरूषो अव्ययः । 58 । 478

अहल्यापावनः स्वामी पितृभक्तो वरप्रदः ।
न्यायो न्यायी नयी श्रीमान् नयो नगधरो ध्रुवः । 59 । 489

लक्ष्मीविश्वंभरा भर्ता देवेन्द्रो बलिमर्दनः ।
बाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः । 60 । 496

देवाग्रणी शिवध्यानतत्परः परम: परः । 
सामगेयो प्रियो अक्रुरः पुण्यकीर्ति सुलोचनः। 61 । 505

पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः ।
जटिलः कल्मषध्वान्तप्रभंजनविभावसु ः । 62 । 513

अव्यक्तलक्षणो अव्यक्तो दशास्यद्वीपकेसरी ।
कलानिधिः कलानाथो कमलानंदवर्धनः । 63 । 519

जयी जितारिः सर्वादि शमनो भवभंजनः ।
अलंकरिष्णु अचलो रोचिष्णु विक्रमोत्तमः । 64 । 528

आशुः शब्दपतिः शब्दागोचरो रंजनो रघुः ।
निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः । 65 । 539

आत्मयोनि अयोनिश्च सप्तजिव्हः सहस्रपात् । 
सनातनतम स्रग्वी पेशलो जविनांवरः । 66 । 547

शक्तिमत शंखभृत नाथ गदापद्मरथांगभृत् ।
निरीहो निर्विकल्पश्च चिद्रुपो वीतसाध्वसः । 67 । 555

शताननः सहस्राक्ष शतमूर्ति घनप्रभः ।
ह्रतपुण्डरिकशयनः कठिनो द्रव एव च । 68 । 562

उग्रो ग्रहपतिः श्रीमान् समर्थो अनर्थनाशनः ।
अधर्मशत्रू रक्षोघ्नः पुरूहुतः पुरुष्टुतः । 69 । 571

ब्रह्मगर्भो बृहत्गर्भो धर्मधेनु धनागमः ।
हिरण्यगर्भो ज्योतिषमान सुललाटः सुविक्रमः । 70 । 579

शिवपूजारतः श्रीमान् भवानीप्रियकृत वशी ।
नरो नारायणः श्यामः कपर्दी नीललोहितः । 71 । 588

रूद्रः पशुपतिः स्थाणु विश्वामित्रो द्विजेश्वरः । 
मातामहो मातरिश्वा विरिंचो विष्टश्रवा । 72 । 597

सर्वभुतानांक्षोभ्यः चण्डः सत्यपराक्रमः ।
 वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः । 73 । 604

निदाघ तपनो अमोघः श्लक्ष्णः परबलापह्रत । 
कबंधमथनो दिव्यः कम्बुग्रीवशिवप्रियः । 74 । 612

शंखो अनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः ।
असंसृष्टो अतिथिः शूरः प्रमाथी पापनाशकृत् । 75 । 622

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ।
रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः । 76 । 630

पवित्रपादः पापारि मणिपूरो नभोगतिः ।
उत्तारणो  दुष्कृति दुर्धर्षो दुस्सहो अभयः । 77 । 639

अमृतेशो अमृतवपु धर्मी धर्मः कृपाकर ः । 
भर्गो विवस्वान आदित्यो  योगाचार्यो दिवस्पतिः । 78 । 649

उदारकीर्ति उद्योगी वांड्मयः सदसन्मयः । 
नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः । 79 । 657

चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः ।
निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः । 80 । 665

श्रीवल्लभः शिवारंभः शान्तिर्भद्रः समंजसः ।
भूशयो भूतिकृत भूति भूषणो भूतवाहनः । 81 । 675

अकायो भक्तकायस्थः कालज्ञानी महावटुः ।
परार्थवृत्ति अचलो  विविक्तः श्रुतिसागरः । 82 ।683

स्वभावभद्रो मध्यस्थः संसारभयनाशनः ।
वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः । 83 । 690

सुरेन्द्रः करणं कर्म कर्मकृत कर्म्यधोक्षजः ।
ध्येयो धुर्योधराधीशः संकल्पः शर्वरीपतिः । 84 । 701


परमार्थ गुरू वृध्दः शुचिराश्रितवत्सलः । 
विष्णु जिष्णु विभु वन्द्यो यज्ञेशो यज्ञपालकः । 85 । 711

प्रभविष्णु  ग्रसिष्णुश्च लोकात्मा लोकभावनः ।
केशवः केशिहा काव्यः कविः कारणकारणम् । 86 । 720 

कालकर्ता कालशेषो  वासुदेवः पुरूष्टुतः । 
आदिकर्ता वराहश्च माधवो मधुसूदनः । 87 । 728

नारायणो नरो हंसो विष्वक्सेनो जनार्दनः । 
विश्वकर्ता महायज्ञो ज्योतिष्मान पुरूषोत्तमः । 88 । 737

वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ।
नारसिंहो महाभिमो वक्रदंष्ट्रो नखायुधः । 89 । 746

आदिदेवे जगत्कर्ता योगीशो गरूडध्वजः ।
गोविन्दो गोपति गोप्ता भुपति भुवनेश्वरः । 90 । 755

पद्मनाभो ह्रषीकेशो धाता दामोदर प्रभुः ।
त्रिविक्रम त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः । 91 । 764

वामनो दुष्टदमनो गोविंदो गोपवल्लभः । 
भक्तिप्रियो अच्युतः सत्यः सत्यकीर्तिः स्मृति ः । 92 । 773

कारूण्यं करूणोव्यासः पापहा शान्तिवर्धनः ।
संन्यासि शास्त्र तत्वज्ञो मंदाद्रिनिकेतना । 93 ।782

बदरीनिलयः शांत तपस्वी वैद्युत्प्रभः । 
भुतावासो गुहावासः श्रीनिवासः श्रियः पतिः । 94 । 790

तपोवासो मुदावासः सत्यवासः सनातनः ।
पुरूषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः । 95 ।  799

पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः ।
शंखी चक्री गदी शांर्गी लांगली मुसली हली । 96 ।  810

किरीटी कुण्डली हारी मेखली कवची ध्वजी |
योध्दा जेता महावीर्यः शत्रुजित शत्रुतापनः । 97 । 821

शास्ता शास्त्रकरः शास्त्रं शंकरः शंकरस्तुतः ।
सारथि सात्विकः स्वामी सामवेदप्रियः समः । 98 । 830

पवनः संहतः शक्तिः संपूर्णांगः समृध्दीमान । 
स्वर्गदः कामदः श्रीदः कीर्तिदो अकीर्तिनाशनः । 99 । 841

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः । 
सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः । 100 । 848

सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः ।
सर्गस्थित्यन्तकृत देवः सर्वलोकसुखावहः । 101 । 854

अक्षय्यः शाश्वतो अनन्तः क्षयवृध्दीविवर्जितः ।
 निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरंजनः । 102 । 863

सर्वोपाधिनिनिर्मुक्तः सत्तामात्रव्यवस्थितः ।
अधिकारि विभुनित्यः परमात्मा सनातनः । 103 । 870

अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः ।
श्यामो युवा लोहिताक्षो दीप्तास्य मितभाषणः । 104 । 880

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ।
सत्यवान गुणसंपन्नः स्वयंतेजाः सुदीप्तिमान् । 105 । 888

कालात्मा भगवान कालः कालचक्रप्रवर्तक ः ।
नारायणः परंज्योतिः परामत्मा सनातनः । 106 । 896

विश्वसृड विश्वगोप्ता विश्वभोक्ता शाश्वतः ।
विश्वेश्वरो विश्वमूर्ति विश्वात्मा विश्वभावनः । 107 । 904

सर्वभुत सुह्रद शांत सर्वभूतानुकंपनः ।
सर्वेश्वरेश्वरः  सर्वः श्रीमान  आश्रितवत्सलः । 108 । 911

सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः । 
अभ्यन्तरस्थ तमस्च्छेत्ता नारायणः परः । 109 । 918

अनादिनिधनः स्रष्टा प्रजापतिपति हरिः । 
नरसिंहः ह्रषीकेशः सर्वात्मा सर्वदृग वशी । 110 । 927

जगस्तस्थुष श्चैव प्रभु नेता सनातनः ।
कर्ता धाता विधाता  सर्वेषां प्रभु ईश्वरः । 111 । 936

सहस्रमूर्ति विश्वात्मा  विष्णु विश्व दृगव्ययः । 
पुराणपुरूषः स्रष्टा सहस्राक्ष सहस्रपाद । 112 । 945

तत्वं नारायणो विष्णु वासुदेवः सनातनः ।
परमात्मा परं ब्रह्म सच्चिदानंदविग्रहः । 113 । 953

परं ज्योति परं धामं पारकाशः परात्परः । 
अच्युतः पुरूषः कृष्णः शाश्वतः शिवः ईश्वरः । 114 । 963

नित्यः सर्वगतः स्थाणुरूग्रः साक्षी प्रजापतिः ।
हिरण्यगर्भः सविता लोककृत लोकभृत विभूः । 115 । 974

रामः श्रीमान महाविष्णु जिष्णु देवहितावहः ।
 तत्वात्मा  तारकं ब्रह्म  शाश्वतः सर्वसिध्दिदः। 116 । 984

अकारवाच्यो भगवान श्री भूलीलापतिः पुमान् ।
सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः । 117 । 993

स्वामी सुशीलः सुलभः सर्वज्ञ सर्वशक्तिमान् ।
नित्यः संपूर्णकामश्च नैसर्गिकसुह्रद सुखीः । 118 । 1002

कृपापीयूषजलधि शरण्यःसर्वदेहिनाम् । 
श्रीमान  नारायणः स्वामी जगतांपति  ईश्वरः । 119 । 1009

श्रीशः शरण्यो भूतानां  संश्रिताभीष्टदायकः । 
अनंतः श्रीपती रामो गुणभृत निर्गुण महान् । 120 । 1018


इति श्री आनंद रामायणे श्रीराम सहस्रनाम स्तोत्रं संपूर्णम् ।
ॐ श्री भगावन श्री रामचन्द्रार्पणमस्तु । 

ॐ श्री कृष्णार्पणमस्तु । ॐ तत् सत् ॐ श्री आई सुशीला ॐ तत् सत् चरणार्पणमस्तु ।

  ईश्वर और धर्मपर आधारित निम्नलिखीत लिंक्स भी कृपया  देख लीजिये -

http://maiism.blogspot.in/2016/01/names-1-to-500-of-ten-thousands-names.html

http://universalreligionmaiism.blogspot.in/







   














Wednesday, January 27, 2016

Dialogue between Lord Shri Rama and Sage Narada

Dialogue between Lord Shri Rama and Sage Narada

श्री गणेशाय नमः ।


श्रीमहादेव उवाच
एकदा सुखमासीनं रामं स्वान्तः पुराजिरे । 
सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् । 1 ।

नीलोत्पलदलश्यामं कौस्तुभमुक्त कन्धरम् । 
सीतया रत्नदण्डेन चामरेणाथ वीजितम् । 2 ।

विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् । 
नारदो अवतरद्द्रष्टुमम्बराद्यत्र राघवः । 3 ।

शुध्दस्फटिकसंकाशः शरच्चन्द्र इवामलः । 
अतर्कितमुपायातो नारदो दिव्यदर्शनः । 4 ।

तं दृष्ट्वा सहसोत्थाय राम; प्रीत्या कृतांजलिः । 
ननाम शिरसा भूमौ सीतया सह भक्तिमान् । 5 ।

उवाच नारदं रामः प्रीत्या परमया युतः । 
संसारिणां मुनि श्रेष्ठ दुर्लभं तव दर्शनाम् । 
अस्माकं विषयासक्तचेतसां नितरां मुने  । 6 ।

अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः । 
संसारिणापि हि मुने लभ्यते सत्समागमः । 7 ।

अतस्त्वद्दर्शनादेव कृतार्थो अस्मि मुनीश्वर ।
  किं कार्य ते मया कार्यं ब्रुहितत्करवाणि भोः । 8 ।

अथ तं नारदो अप्याह राघवं भक्तवत्सलम् ।
 किं मोहयसि मां राम वाक्यै र्लोकानुसारिभिः । 9 ।

संसार्यहमिति  प्रोक्तं सत्यमे तत्वया विभो । 
जगतामादिभूता या सा माया गृहिणी तव । 10 ।

त्वतसन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः ।
 त्वदाज्ञया सदा भाति माया या त्रिगुणात्मिका । 11 ।

सूते अजस्त्रंस शुक्लकृष्णलोहिताः प्रजाः।
 लोकत्रयमहागेहे गृहस्थस्त्व मुदाह्रतः । 12 ।

त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा ।
 ब्रह्मा त्वं जानकी वाणी सूर्यस्तवं जानकी प्रभा । 13 ।

भवान् शशांकः सीता तु रोहिणी शुभ लक्षणा ।
 शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् । 14 ।

यमस्त्वं कालरूपश्च  सीता संयमिनी प्रभो ।
 निऋतिस्त्वं  जगन्नाथ तामसी जानकी शुभा । 15 ।

राम त्वमेव वरूणो भार्गवी जानकी शुभा । 
वायुस्त्वं राम सीता तु सदागतिरितीरिता । 16 ।

कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता ।
 रूद्राणी जानकी प्रोक्तारूद्रस्त्वं लोकनाशकृत् । 17 ।

लोके स्त्रीवाचकं यावत्तसर्वं जानकी शुभा । 
पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव । 18 ।

तस्माल्लोकत्रये देवा युवाभ्यां नास्ति किंचन । 19 ।

त्वदाभासोदिताज्ञानमव्याकृतमीतिर्यते ।
 तस्मान्महांस्ततः सूत्रं लिगं सर्वात्मकं ततः । 20 ।

अहंकारश्च बुध्दिश्च पंचप्राणेन्द्रियाणि च ।
 लिंगमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् । 21 ।

स एव जीवसंज्ञश्च लोके भाति जगन्मयः ।
 अवाच्यानाद्यविद्यैव  कारणोपाधिरूच्यते । 22 ।

स्थूलं सूक्ष्मंकारणाख्यमुपाधित्रितयं चितेः ।
एतै विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः । 23 ।


जाग्रत्स्वप्नसुषुप्त्याख्या संसृतिर्या प्रवर्तते । 
तस्याविलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम । 24 ।

त्वत्त एव जगज्जातं त्वयि सर्वंप्रतिष्ठितम् । 
त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् । 25 ।

रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत । 
परात्माहमिति ज्ञात्वा भयदुःखै विमुच्यते । 26 ।

चिन्मात्राज्योतिषा सर्वाः सर्वदेहेषु बुध्दयः ।
 त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् । 27 ।

अज्ञानान्न्यस्यते सर्वं त्वयि रज्जौ भुजंगवत् ।
  त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं तदाभ्यसेत् । 28 ।

त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् ।
 तस्मात्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि । 29 ।

अहं त्वद्भक्तभक्तानां तद्भक्तानां  च किंकरः ।
 अतो मामनुगृण्हीष्व मोहयस्व न मां प्रभो । 30 ।

त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो ।
 अतस्तवाहं पौत्रो अस्मि भक्तं मां पाहि राघव । 31 ।

इत्युक्त्वा  बहुशो नत्वा स्वानन्दाश्रुपरिप्लुतः ।
 उवाच वचनं राम ब्रह्मणा नोदितोअस्म्यहम् । 32 ।

रावणस्य वधार्थाय जातो असि रघु सत्तम । 
इदानीं राज्यरक्षार्थं पिता त्वामभिषेक्ष्यति । 33 ।

यदि राज्याभिसंसक्तो  रावनं न हनिष्यसि ।
 प्रतिज्ञा ते कृता राम भूभारहरणाय वै । 34 ।

तत सत्यं कुरू राजेन्द्र सत्यसंधस्त्वमेव हि । 
श्रुत्वैतद् गदितं रामो नारदं प्राह सस्मीतम् । 35 ।

श्रृणु नारद मे किंचिद्विद्यते अविदितं क्वचित् । 
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः । 36 ।

किन्तु कालानुरोधेन तत तत प्रारब्धसंक्षयात् ।
हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् । 37 ।

रावणस्य विनाशार्थं श्वो गन्ता दण्डाकननम् । 
चतुर्दश समास्तत्र ह्उषित्वा मुनिवेषधृक् । 38 ।

सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् । 
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह । 39 ।

प्रदक्षिणत्रयं कृत्वा दण्डवत्प्रणिपत्य तम् । 
अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः । 40 ।

संवादं पठति श्रृणोति संस्मरेद्वा  यो नित्यं मुनिवररामयोः स भक्त्या  ।
संप्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं विरतिपुरःसरं क्रमेण । 41 ।

इति श्री अध्यात्म रामायणे उमामहेश्वरसंवादे अयोध्या काण्डे श्रीराम नारद संवादे प्रथमः सर्गः ।

SHAKTI-ISM / SHIVA-ISM / VAISHNAV-ISM / MAI-ISM: महालक्ष्मीचा पाठ

SHAKTI-ISM / SHIVA-ISM / VAISHNAV-ISM / MAI-ISM: महालक्ष्मीचा पाठ: श्री महालक्ष्मीचा पाठ । श्री गणेशाय नमः। श्री सरस्वत्यै नमः। श्री गुरूभ्यो नमः। जय माई मार्कण्ड माई । श्री कुलदेवतायै नमः। अविघ...

Thursday, October 22, 2015

Pardon seeking prayer देवी अपराध क्षमा स्तुती स्तोत्र ।

PARDON SEEKING PRAYER  / अपराधक्षमास्तुतिस्तोत्र 


अपराधसहस्राणि क्रियन्ते अहर्निशं मया । दासो अहमिति मां मत्वा क्षमस्व परमेश्वरी ।।
Thousands of misunderstandings, huge blunders, crimes and sins are perpetually being done by us. Pardon us them all with the consideration that " We are thy wicked children".
आवाहनं न जानामि न जानामि विसर्जनम । पूजा चैव न जानामि क्षम्यतां परमेश्वरी ।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया माई परिपूर्णं तदस्तु मे ।।
We do not know the inviting or parting formality ceremony or courtesy. We do not know how to worship. We do something  somehow, without scriptural observances, ceremony or devotion.Ye Mother of Infinite Mercy !! Pardon us.
अपराधशतं कृत्वा जगदम्बेति चोच्चरेत ।  यां गति समवाप्नोति न तां ब्रह्मादयः सुराः ।।
Having committed hundreds of sins and crimes, Thy devotees who repeat  Jagadamba - Jay Mai - are given a forgiveness which is unimaginable by Brahma,principal deities and others.
सापराधो अस्मि शरणं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्यो अहं यथेच्छसि तथा कुरू ।। 
Full of sins we are, but we have surrender ourselves to Thee. We are to be pitied for what we have done. Do with us as Thou wishest.
अज्ञानाद्विस्मृतेभ्रान्त्या यन् न्यूनाधिकं कृतम् । तत्सर्वं क्षम्यतां माई प्रसीद परमेश्वरी ।।
Whatever more or less, action or omission, as a result of ignorance, forgetfulness, misunderstanding, indolence, etc. happens in our case or proceeds from us, please pardon us for  that [ and set all right considering Thy own greatness and Thy universal fame of Mercifulness  and Forgiveness and the universal belief about Thy own never-failing grace ] .
 मार्कण्डमाई जगन्मातः सच्चिदानंदविग्रहे । गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ।।
Thou art the fulfiller and controller of desires. Thou art the Mother of the whole universe, Thou art existence, knowledge and bliss.Please accept our worship made blissful by the love which thou bearest to thy children.
गुह्यातिगुह्यगोपत्री त्वं गृहाणास्मात्कृतं जपम् । सिध्दिर्भवतु मे माई त्वत्प्रसादात्सुरेश्वरि ।। जय माई ।
जय माई जय मार्कण्ड माई
Thou art mystery of mysteries and Thy mercy is inconceivable of all inconceivables, Thou art the protectress of protectionists. Accept whatever is done by us as best, and by Thy grace . Oh Mother, let our truest welfare and victory be achieved.
जय माई जय मार्कण्ड माई
DEDICATED TO DIVINE MOTHER

Wednesday, September 2, 2015

One hundred and eight names of Goddess Shri Ganga



श्रीगंगा-अष्टोत्तरशतनामावलिः 

1) ॐ श्री गंगायै नमः  2) ॐ श्री त्रिपथगादेव्यै नमः  3) ॐ श्री  

 शंभुमौलिविहारिण्यै नमः 4) ॐ श्री जान्हव्यै नमः 5) ॐ श्री पापहन्त्रै 

नमः 6) ॐ श्री महापातकनाशिन्यै नमः 7) ॐ श्री पतितोध्दारिण्यै नमः


8) ॐ श्री स्रोतस्वत्यै नमः 9) ॐ श्री परमवेगिन्यै नमः 10) ॐ श्री 


विष्णुपादाब्जसंभूतायै नमः 11) ॐ श्री विष्णुदेहकृतालयायै नमः


12) ॐ श्री स्वर्गाब्धिनिलयायै नमः 13) ॐ श्री साध्व्यै नमः


14) ॐ श्री स्वर्णद्यै नमः 15) ॐ श्री सुरनिम्नगायै नमः 16) ॐ श्री


मंदाकिन्यै नमः 17) ॐ श्री महावेगायै नमः 18) ॐ श्री स्वर्णश्रृंगभेदिन्यै 


नमः 19) ॐ श्री देवपूज्यतमायै नमः 20) ॐ श्री दिव्यायै नमः 


21) ॐ श्री दिव्यस्थाननिवासिन्यै नमः 22) ॐ श्री सुचारूनीररूचिरायै 


नमः 23) ॐ श्री महापर्वतभेदिन्यै नमः 24) ॐ श्री भागीरथ्यै नमः


25) ॐ श्री भगवत्यै नमः 26) ॐ श्री महामोक्षप्रदायिन्यै नमः


27) ॐ श्री सिंधुसंगगतायै नमः 28) ॐ श्री शुध्दायै नमः 


29) ॐ श्री रसातलनिवासिन्यै नमः 30) ॐ श्री महाभोगायै नमः


31) ॐ श्री भोगवत्यै नमः 32) ॐ श्री सुभगानंददायिन्यै नमः


 33) ॐ श्री महापापहरायै नमः34) ॐ श्री पुण्यायै नमः


35) ॐ श्री परमाल्हादायिन्यै नमः 36) ॐ श्री पार्वत्यै नमः


37) ॐ श्री शिवपत्न्यै नमः 38)  ॐ श्री शिवशीर्षगतालयायै नमः


39) ॐ श्री शंभोर्जटामध्यगतायै नमः 40) ॐ श्री निर्मलायै नमः


41) ॐ श्री निर्मलाननायै नमः 42) ॐ श्री महाकलुषहन्त्रै नमः


43) ॐ श्री जन्हुपुत्र्यै नमः 44) ॐ श्री जगत्प्रियायै नमः


45) ॐ श्री त्रैलोक्यपावन्यै नमः 46) ॐ श्री पूर्णायै नमः


47) ॐ श्री पूर्णब्रह्मस्वरूपिण्यै नमः 48) ॐ श्री जगत्पूज्यतमायै नमः


49) ॐ श्री चारूरूपिण्यै नमः 50) ॐ श्री जगदंबिकायै नमः


51) ॐ श्री लोकानुग्रहकत्र्यै नमः 52) ॐ श्री सर्वलोकदयापरायै नमः


53) ॐ श्री याम्यभीतिहरायै नमः 54) ॐ श्री तारायै नमः


55) ॐ श्री पारायै नमः 56) ॐ श्री संसारतारिण्यै नमः 57) ॐ श्री 

ब्रह्माण्डभेदिन्यै नमः 58) ॐ श्री ब्रह्मकमण्डलुकृतालयायै नमः


59) ॐ श्री सौभाग्यदायिन्यै नमः 60) ॐ श्री पुंसांनिर्वाणपददायिन्यै नमः


61) ॐ श्री अचिंत्यचरितायै नमः 62) ॐ श्री चारूरूचिरातिमनोहरायै नमः

63) ॐ श्री मर्त्यस्थायै नमः 64) ॐ श्री मृत्युभयहायै नमः 

65) ॐ श्री स्वर्गमोक्षप्रदायिन्यै नमः 66) ॐ श्री पापापहारिण्यै नमः

67) ॐ श्री दूरचारिण्यै नमः 68) ॐ श्री वीचिधारिण्यै नमः

69) ॐ श्री कारूण्यपूर्णायै नमः 70) ॐ श्री करूणामय्यै नमः 

71) ॐ श्री दुरितनाशिनयै नमः 72) ॐ श्री गिरिराजसुतायै नमः

73) ॐ श्री गौरीभगिन्यै नमः 74) ॐ श्री गिरिशप्रियायै नमः

75) ॐ श्री मेनकागर्भसंभूतायै नमः 76) ॐ श्री मैनाकभगिनीप्रियायै नमः

77)ॐ श्रि आद्यायै नमः 78) ॐ श्री त्रिलोकजनन्यै नमः 79) ॐ श्री

त्रैलोक्यपरिपालिन्यै नमः 80)  ॐ श्री तीर्थश्रेष्ठतमायै नमः 81) ॐ श्री

श्रेष्ठायै नमः 82) ॐ श्री सर्वतीर्थमय्यै नमः 83) ॐ श्री शुभायै नमः

84) ॐ श्री चतुर्वेदमय्यै नमः 85) ॐ श्री सर्वायै नमः 86) ॐ श्री

पितृसन्तृप्तिदायिन्यै नमः 87) ॐ श्री शिवदायिन्यै नमः 88) ॐ श्री

शिवसायुज्यदायिन्यै नमः 89) ॐ श्री शिववल्लभायै नमः 90) ॐ श्री

तेजस्विन्यै नमः 91) ॐ श्री त्रिनयनायै नमः 92) ॐ श्री 

त्रिलोचनमनोरमायै नमः 93) सप्तधारायै नमः 94) ॐ श्री शतमुख्यै नमः

95) ॐ श्री सगरान्वयतारिण्यै नमः 96) ॐ श्री मुनिसेव्यायै नमः

97) ॐ श्री मुनिसुतायै नमः 98) ॐ श्री जन्हुजानुप्रभेदिन्यै नमः

99) ॐ श्री मकरास्थायै नमः 100) ॐ श्री सर्वगतायै नमः

101) ॐ श्री सर्वाशुभनिवारिण्यै नमः 102) ॐ श्री सुदृश्यायै नमः

103) ॐ श्री चाक्षुषीतृप्तिदायिन्यै नमः 104) ॐ श्री मकरालयायै नमः

105) ॐ श्री सदानंदमय्यै नमः 106) ॐ श्री नित्यानंददायै नमः

107) ॐ श्री नगपूजितायै नमः 

108)ॐ श्री सर्वदेवाधिदेवैपरिपूज्यपदांबुजायै नमः

ॐ इति श्री महाभागवते महापुराणे श्रीगंगाअष्टोत्तरशतनामावलिः पूर्णः




http://maiism.blogspot.in/2014/04/mai-lalita-sahasranam-mothers-thousand.html

http://www.facebook.com/groups/godasmother


http://maiism.blogspot.com/


http://maiism.weebly.com/blog/mai-ism-what-it-stands-for


http://mohankharkar.wix.com/mai-ism?fb_ref=Default

https://mohankharkar.wordpress.com/about/

One hundred and eight names of Planet Lord Shri Saturn



ॐ अथ श्री शनि-अष्टोत्तरशतनामावलिः

मन्त्र - नीलांजनसमाभासं रविपुत्रं यमाग्रजम्  । छायामार्तण्ड संभूतं तं नमामि शनैश्चरम् ।।

 [ Nelaanjan-samaa-bhaasam Ravi-putram Yama-agrajam | Chaayaa-Maartanda-sambhootam Tam Namaami Shanaischaram || ]


1) ॐ श्री शौरये नमः 2) ॐ श्री शनैश्चराय नमः 3) ॐ श्री कृष्णाय नमः

     
4) ॐ श्री नीलोत्पलनिभाय नमः 5) ॐ श्री शनये नमः 6) ॐ श्री

 शुष्कोदराय नमः 7) ॐ श्री विशालाक्षाय नमः 8) ॐ श्री दुर्निरीक्ष्याय नमः

9) ॐ श्री विभीषणाय नमः 10) ॐ श्री शितिकण्ठनिभाय नमः 11) ॐ श्री

ॐ श्री नीलाय नमः 12) ॐ श्री छायाह्रदयनन्दनाय नमः 13) ॐ श्री

कालदृष्टये नमः 14) ॐ श्री कोटराक्षाय नमः 15) ॐ श्री स्थूलरोम्णे नमः

16) ॐ श्री वलीमुखाय नमः 17) ॐ श्री दीर्घाय नमः 18) ॐ श्री 

निर्मांसगात्राय नमः 19) ॐ श्री शुष्काय नमः 20) ॐ श्री घोरय नमः

21) ॐ श्री भयानकाय नमः 22) ॐ श्री नीलांशवे नमः 23) ॐ श्री

 क्रोधनाय नमः 24) ॐ श्री रौद्राय नमः 25) ॐ श्री दीर्घश्मश्रवे नमः

26) ॐ श्री जटाधराय नमः 27) ॐ श्री मन्दाय नमः 28) ॐ श्री मन्दगतये

नमः 29) ॐ श्री खंजाय नमः 30) ॐ श्री तप्तय नमः 31) ॐ श्री

 संवर्तकाय नमः 32) ॐ श्री यमाय नमः 33) ॐ श्री ग्रहराजाय नमः

34) ॐ श्री करालिने नमः 35) ॐ सूर्यपुत्राय नमः 36) ॐ श्री रवये नमः

37) ॐ श्री शशिने नमः 38) ॐ श्री कुजाय नमः 39) ॐ श्री बुधाय नमः

40) ॐ श्री गुरवे नमः 41) ॐ श्री काव्याय नमः 42) ॐ श्री भानुजाय नमः

43) ॐ श्री सिंहिकासुताय नमः 44) ॐ श्री केतवे नमः 45) ॐ श्री देवपतये

नमः 46) ॐ श्री बाहवे नमः 47) ॐ श्री कृतान्ताय नमः 48) ॐ श्री

 नैऋताय नमः 49) ॐ श्री कुशिने नमः 50) ॐ श्री मरूते नमः 51) ॐ श्री

कुबेराय नमः 52) ॐ श्री ईशानाय नमः 53) ॐ श्री सुराय नमः 54) ॐ श्री

आत्मभुवे नमः 55) ॐ श्री विष्णवे नमः 56) ॐ श्री हराय नमः 57) ॐ श्री

गणपतये नमः 58) ॐ श्री कुमाराय नमः 59) ॐ श्री कामाय नमः 

60) ॐ  श्री ईश्वराय नमः 61) ॐ श्री कर्त्रे नमः 62) ॐ श्री हर्त्रे नमः 

63) ॐ श्री पालयित्रे नमः 64) ॐ श्री राज्यघ्ने नमः 65) ॐ श्री

 राज्यदायकाय नमः 66) ॐ श्री छायासुताय नमः 67) ॐश्री श्यामलांगाय

नमः 68) ॐ श्री धनहत्रै नमः 69) ॐ श्री धनप्रदाय नमः 70) ॐ श्री 

क्रूरकर्मविधात्रे नमः 71) ॐ श्री सर्वकर्मविरोधकाय नमः 72) ॐ श्री तुष्टय

नमः 73) ॐ श्री रूष्टाय नमः 74) ॐ श्री कामरूपाय नमः 75) ॐ श्री 

कामदाय नमः 76) ॐ श्री रविनन्दनाय नमः 77) ॐ श्री ग्रहपीडाहराय

 नमः  78) ॐ श्री शान्ताय नमः 79) ॐ श्री नक्षत्रेशाय नमः 80) ॐ श्री

ग्रहेश्वराय नमः 81) ॐ श्री स्थिरासनाय नमः 82) ॐ श्री स्थिरगतये नमः

83) ॐ श्री महाकायाय नमः 84) ॐ श्री महाबलाय नमः 85) ॐ श्री 

महाप्रभवे नमः 86)  ॐ श्री महाकालाय नमः 87) ॐ श्री कालात्मने नमः

88) ॐ श्री कालकालकाय नमः 89) ॐश्री आदित्यभयदात्रे नमः 90) ॐ 

श्री  मृत्यवे नमः 91) ॐ श्री आदित्यनन्दनाय नमः 92) ॐ श्री शतभिदे 

नमः 93) ॐ श्री रूक्षदयितायै नमः 94) ॐ श्री त्रयोदशीतिथिप्रियाय नमः

95) ॐ श्री तिथ्यात्मने नमः 96) ॐ श्री तिथिगणनाय नमः 97) ॐ श्री

नक्षत्रगणनायकाय नमः 98) ॐ श्री योगराशिमुहूर्तात्मने नमः 99) ॐ श्री

कत्रै नमः 100) ॐ श्री दिनपतये नमः 101) ॐ श्री प्रभवे नमः 102) ॐ श्री

शमीपुष्पप्रियाय नमः 103) ॐ श्री श्यामाय नमः 104) ॐ श्री 

त्रैलोक्यभयदायकाय नमः 105) ॐ श्री  नीलवाससे नमः 106) ॐ श्री

क्रियासिन्धवे नमः 107) ॐ श्री नीलांजनचयच्छवये नमः 108) ॐ श्री 

सर्वरोगहराय नमः  109) ॐ श्री देवाय नमः 110) ॐ श्री सिध्दाय नमः

111) ॐ श्री देवगणस्तुताय नमः 


इति श्री भविष्यपुराणे नारदप्रोक्तं श्री शनैश्चरस्तवराज नाम श्री शनैश्चर

अष्टोत्तरशतनामावलिः सम्पूर्णा  ॐ श्री शनिदेवार्पणमस्तुः ।


अथ शनिस्तोत्रम्

कोणस्थ पिंगलो बभ्रुः कृष्णो रौद्रांतको यमः । सौरिः शनैश्चरो मंदः पिप्पलादेन संस्तुतः ।।

एतानि दश नामानि प्रातरूत्थाय यः पठेत । शनैश्चरकृता पीडा न कदाचित
भविष्यति ।।

पिप्पलाद उवाच - नमस्ते कोणसंस्थाय पिंगलाय नमोस्तुते । नमस्ते

 बभ्रुरूपाय  कृष्णाय च नमोस्तुते ।। 1 ।। नमस्ते रौद्रदेहाय नमस्ते 

चांतकाय च । नमस्ते यमसंज्ञाय नमस्ते सौरये विभो ।। 2 ।। नमस्ते

 मंदसंज्ञाय शनैश्वर नमोस्तुते । प्रसादं कुरू देवेश दीनस्य प्रणतस्य च ।। 

3 ।।

ॐ श्री शनिदेवार्पणमस्तु 

One hundred and eight names of Lord Shri Rama



ॐ  अथ श्रीराम अष्टोत्तरशतनामावलिः
1) ॐ श्रीरामाय नमः  2) ॐ रामभद्राय नमः  3) ॐ रामचन्द्राय नमः 4) ॐ शाश्वताय नमः 5) ॐ राजीवलोचनाय नमः 6) ॐ श्रीमते नमः 7) ॐ राजेन्द्राय नमः 8) ॐ रघुपुंगवाय नमः  9) ॐ जानकीवल्लभाय नमः 10) ॐ जैत्राय नमः 11) ॐ जितामित्राय नमः 12) ॐ जनार्दनाय नमः 13) ॐ विश्वामित्रप्रियाय नमः14) ॐ दान्ताय नमः 15) ॐ शरणत्राणतत्पराय नमः 16) ॐ वालिप्रमथनाय नमः 17)  ॐ वाग्मिने नमः 18) ॐ सत्यवाचे नमः 19) ॐ सत्यविक्रमाय नमः 20) ॐ सत्यव्रताय नमः 21) ॐ व्रतधराय नमः 22) ॐ सदा हनुमदाश्रिताय नमः 23) ॐ कौसलेयाय नमः 24) ॐ खरध्वंसिने नमः 25) ॐ विराधवधपण्डिताय नमः 26) ॐ बिभीषणपरित्रात्रे नमः 27) ॐ हरकोदण्डखन्डनाय नमः 28) ॐ सप्ततालप्रभेत्रे नमः 29) ॐ दशग्रीवशिरोहराय नमः 30) ॐ जामदग्न्यमहादर्पदलनाय नमः 31) ॐ ताटकान्तकाय नमः 32) ॐ वेदान्तसाराय नमः 33) ॐ वेदात्मने नमः 34) ॐ भवरोगस्य भेषजाय नमः 35)  ॐ दूषणत्रिशिरोहन्त्रे नमः36) ॐ त्रिमूर्तये नमः 37) ॐ त्रिगुणात्मकाय नमः 38) ॐ त्रिविक्रमाय नमः39)  ॐ त्रिलोकात्मने नमः 40) ॐ पुण्यचारित्रकीर्तनाय नमः 41) ॐ त्रिलोकरक्षकाय नमः 42) ॐ धन्विने नमः 43) ॐ दण्डकारण्यकर्तनाय नमः 44) ॐ अहल्याशापशमनाय नमः 45) ॐ पितृभक्ताय नमः 46) ॐ वरप्रदाय नमः 47) ॐ जितेन्द्रियाय नमः 48) ॐ जितक्रोधाय नमः 49) ॐ जितामित्राय नमः 50) ॐ जगद्गुरवे नमः 51) ॐ ऋक्षवानरसंघातिने नमः52) ॐ चित्रकूटसमाश्रयाय नमः 53)  ॐ जयंतत्राणवरदाय नमः 54) ॐ सुमित्रापुत्रसेविताय नमः 55) ॐ सर्वदेवादिदेवाय नमः 56) ॐ मृतवानरजीवनाय नमः 57) ॐ मायामारिचहन्त्रे नमः 58) ॐ महादेवाय नमः59) ॐ महाभुजाय नमः 60) ॐ सर्वदेवस्तुताय नमः 61) ॐ सौम्याय नमः 62) ॐ ब्रह्मण्याय नमः 63) ॐ मुनिसंस्तुताय नमः 64) ॐ महायोगाय नमः 65) ॐ महोदराय नमः 66) ॐ सुग्रीवेप्सितराज्यदाय नमः 67)ॐ सर्वपुण्याधिकफलाय नमः 68) ॐ स्मृतसर्वाघनाशनाय नमः 69) ॐ अनादये नमः 70) ॐ आदिपुरूषाय नमः 71) ॐ महापुरूषाय नमः 72) ॐ पुण्योदयाय नमः 73) ॐ दयासाराय नमः  74) ॐ पुराणपुरूषोत्तमाय नमः 75) ॐ स्मितवक्त्राय नमः 76) ॐ स्मिताभाषिणे नमः 77) ॐ पूर्वभाषिणे नमः 78) ॐ राघवाय नमः
79) ॐ अनंतगुणगंभीराय नमः 80) ॐ धीरोदात्तगुणोत्तमाय नमः 81) ॐ मायामानुषचारित्राय नमः 82) ॐ महादेवादिपूजिताय नमः  83) ॐ सेतुकृते नमः 84) ॐ जितवारिषाय नमः 85) ॐ सर्वतीर्थमयाय नमः 86) ॐ हरये नमः 87) ॐ श्यामांगाय नमः 88) सुंदराय नमः 89) ॐ शूराय नमः 90) ॐ  पीतवाससे नमः 91) ॐ धनुर्धराय नमः 92)  ॐ सर्वयज्ञाधिपाय नमः 93) ॐ यज्विने नमः 94) ॐ जरामरणवर्जिताय नमः 95) ॐ  शिवलिंगप्रतिष्ठात्रे नमः 96) ॐ सर्वापगुणवर्जिताय नमः 97) ॐ परमात्मने नमः 98) ॐ परस्मै ब्रह्मणे नमः 99) ॐ सच्चिदानंदविग्रहाय नमः 100) ॐ परस्मै ज्योतिषे नमः 101) ॐ परस्मै धाम्ने नमः 102) ॐ पराकाशाय नम 103) ॐ परात्पराय नमः 104) ॐ परेशाय नमः 105) ॐ पारगाय नमः 106) ॐ  पाराय नमः 
107) ॐ सर्वदेवात्मकाय नमः 108) ॐ पराय नमः
।। इति श्रीपद्मपुराणे उत्तरखण्डे ॐ श्रीराम अष्टोत्तरशतनामावलिः संपूर्णः ।। भगवान श्रीरामचन्द्रचरणार्पणमस्तु ।।

http://maiism.blogspot.in/2014/04/mai-lalita-sahasranam-mothers-thousand.html

https://mohankharkar.wordpress.com/about/

http://mohankharkar.wix.com/mai-ism?fb_ref=Default

http://maiism.weebly.com/blog/mai-ism-what-it-stands-for