Dialogue between Lord Shri Rama and Sage Narada
श्री गणेशाय नमः ।
श्रीमहादेव उवाच
एकदा सुखमासीनं रामं स्वान्तः पुराजिरे ।
सर्वाभरणसंपन्नं रत्नसिंहासने स्थितम् । 1 ।
नीलोत्पलदलश्यामं कौस्तुभमुक्त कन्धरम् ।
सीतया रत्नदण्डेन चामरेणाथ वीजितम् । 2 ।
विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् ।
नारदो अवतरद्द्रष्टुमम्बराद्यत्र राघवः । 3 ।
शुध्दस्फटिकसंकाशः शरच्चन्द्र इवामलः ।
अतर्कितमुपायातो नारदो दिव्यदर्शनः । 4 ।
तं दृष्ट्वा सहसोत्थाय राम; प्रीत्या कृतांजलिः ।
ननाम शिरसा भूमौ सीतया सह भक्तिमान् । 5 ।
उवाच नारदं रामः प्रीत्या परमया युतः ।
संसारिणां मुनि श्रेष्ठ दुर्लभं तव दर्शनाम् ।
अस्माकं विषयासक्तचेतसां नितरां मुने । 6 ।
अवाप्तं मे पूर्वजन्मकृतपुण्यमहोदयैः ।
संसारिणापि हि मुने लभ्यते सत्समागमः । 7 ।
अतस्त्वद्दर्शनादेव कृतार्थो अस्मि मुनीश्वर ।
किं कार्य ते मया कार्यं ब्रुहितत्करवाणि भोः । 8 ।
अथ तं नारदो अप्याह राघवं भक्तवत्सलम् ।
किं मोहयसि मां राम वाक्यै र्लोकानुसारिभिः । 9 ।
संसार्यहमिति प्रोक्तं सत्यमे तत्वया विभो ।
जगतामादिभूता या सा माया गृहिणी तव । 10 ।
त्वतसन्निकर्षाज्जायन्ते तस्यां ब्रह्मादयः प्रजाः ।
त्वदाज्ञया सदा भाति माया या त्रिगुणात्मिका । 11 ।
सूते अजस्त्रंस शुक्लकृष्णलोहिताः प्रजाः।
लोकत्रयमहागेहे गृहस्थस्त्व मुदाह्रतः । 12 ।
त्वं विष्णुर्जानकी लक्ष्मीः शिवस्त्वं जानकी शिवा ।
ब्रह्मा त्वं जानकी वाणी सूर्यस्तवं जानकी प्रभा । 13 ।
भवान् शशांकः सीता तु रोहिणी शुभ लक्षणा ।
शक्रस्त्वमेव पौलोमी सीता स्वाहानलो भवान् । 14 ।
यमस्त्वं कालरूपश्च सीता संयमिनी प्रभो ।
निऋतिस्त्वं जगन्नाथ तामसी जानकी शुभा । 15 ।
राम त्वमेव वरूणो भार्गवी जानकी शुभा ।
वायुस्त्वं राम सीता तु सदागतिरितीरिता । 16 ।
कुबेरस्त्वं राम सीता सर्वसंपत्प्रकीर्तिता ।
रूद्राणी जानकी प्रोक्तारूद्रस्त्वं लोकनाशकृत् । 17 ।
लोके स्त्रीवाचकं यावत्तसर्वं जानकी शुभा ।
पुन्नामवाचकं यावत्तत्सर्वं त्वं हि राघव । 18 ।
तस्माल्लोकत्रये देवा युवाभ्यां नास्ति किंचन । 19 ।
त्वदाभासोदिताज्ञानमव्याकृतमीतिर्यते ।
तस्मान्महांस्ततः सूत्रं लिगं सर्वात्मकं ततः । 20 ।
अहंकारश्च बुध्दिश्च पंचप्राणेन्द्रियाणि च ।
लिंगमित्युच्यते प्राज्ञैर्जन्ममृत्युसुखादिमत् । 21 ।
स एव जीवसंज्ञश्च लोके भाति जगन्मयः ।
अवाच्यानाद्यविद्यैव कारणोपाधिरूच्यते । 22 ।
स्थूलं सूक्ष्मंकारणाख्यमुपाधित्रितयं चितेः ।
एतै विशिष्टो जीवः स्याद्वियुक्तः परमेश्वरः । 23 ।
जाग्रत्स्वप्नसुषुप्त्याख्या संसृतिर्या प्रवर्तते ।
तस्याविलक्षणः साक्षी चिन्मात्रस्त्वं रघूत्तम । 24 ।
त्वत्त एव जगज्जातं त्वयि सर्वंप्रतिष्ठितम् ।
त्वय्येव लीयते कृत्स्नं तस्मात्त्वं सर्वकारणम् । 25 ।
रज्जावहिमिवात्मानं जीवं ज्ञात्वा भयं भवेत ।
परात्माहमिति ज्ञात्वा भयदुःखै विमुच्यते । 26 ।
चिन्मात्राज्योतिषा सर्वाः सर्वदेहेषु बुध्दयः ।
त्वया यस्मात्प्रकाश्यन्ते सर्वस्यात्मा ततो भवान् । 27 ।
अज्ञानान्न्यस्यते सर्वं त्वयि रज्जौ भुजंगवत् ।
त्वज्ज्ञानाल्लीयते सर्वं तस्माज्ज्ञानं तदाभ्यसेत् । 28 ।
त्वत्पादभक्तियुक्तानां विज्ञानं भवति क्रमात् ।
तस्मात्वद्भक्तियुक्ता ये मुक्तिभाजस्त एव हि । 29 ।
अहं त्वद्भक्तभक्तानां तद्भक्तानां च किंकरः ।
अतो मामनुगृण्हीष्व मोहयस्व न मां प्रभो । 30 ।
त्वन्नाभिकमलोत्पन्नो ब्रह्मा मे जनकः प्रभो ।
अतस्तवाहं पौत्रो अस्मि भक्तं मां पाहि राघव । 31 ।
इत्युक्त्वा बहुशो नत्वा स्वानन्दाश्रुपरिप्लुतः ।
उवाच वचनं राम ब्रह्मणा नोदितोअस्म्यहम् । 32 ।
रावणस्य वधार्थाय जातो असि रघु सत्तम ।
इदानीं राज्यरक्षार्थं पिता त्वामभिषेक्ष्यति । 33 ।
यदि राज्याभिसंसक्तो रावनं न हनिष्यसि ।
प्रतिज्ञा ते कृता राम भूभारहरणाय वै । 34 ।
तत सत्यं कुरू राजेन्द्र सत्यसंधस्त्वमेव हि ।
श्रुत्वैतद् गदितं रामो नारदं प्राह सस्मीतम् । 35 ।
श्रृणु नारद मे किंचिद्विद्यते अविदितं क्वचित् ।
प्रतिज्ञातं च यत्पूर्वं करिष्ये तन्न संशयः । 36 ।
किन्तु कालानुरोधेन तत तत प्रारब्धसंक्षयात् ।
हरिष्ये सर्वभूभारं क्रमेणासुरमण्डलम् । 37 ।
रावणस्य विनाशार्थं श्वो गन्ता दण्डाकननम् ।
चतुर्दश समास्तत्र ह्उषित्वा मुनिवेषधृक् । 38 ।
सीतामिषेण तं दुष्टं सकुलं नाशयाम्यहम् ।
एवं रामे प्रतिज्ञाते नारदः प्रमुमोद ह । 39 ।
प्रदक्षिणत्रयं कृत्वा दण्डवत्प्रणिपत्य तम् ।
अनुज्ञातश्च रामेण ययौ देवगतिं मुनिः । 40 ।
संवादं पठति श्रृणोति संस्मरेद्वा यो नित्यं मुनिवररामयोः स भक्त्या ।
संप्राप्नोत्यमरसुदुर्लभं विमोक्षं कैवल्यं विरतिपुरःसरं क्रमेण । 41 ।
इति श्री अध्यात्म रामायणे उमामहेश्वरसंवादे अयोध्या काण्डे श्रीराम नारद संवादे प्रथमः सर्गः ।
। परब्रह्म ॐ श्री सीतारामचन्द्रार्पणमस्तु ।
Please also visit these links :
http://lalitaasahasranam.blogpot.in/